मूलपाठ
Side III
1. अस्त्रापास्त्रविधानकैाशलगुणैः प्रज्ञातसत्पैारुषः
2. श्रीमच्चारुभुजः प्रमृष्टकनकश्लक्ष्णावदातच्छविः
3. पीनांसो विकचासितोत्पलदलप्रस्पर्द्धमानेक्षणः
4. साक्षात्काम इवाङ्गवान्नरपतिः कान्ताविलासोत्सवः [१३]
5. यूपैश्चारुभिरुच्छ्रितैर्व्वसुमती पित्रा ममालङ्कृता
6. क्षात्रेणाजिमखाश्रयेण विधिना दीक्षाश्रितोहं स्थितः
7. यात्राम्प्रत्यरिसङ्क्षयाय तरसा गच्छामि पूर्व्वान्दिशम्
8. ये चाज्ञावशवर्तिनो मम नृपाः संस्थापयिष्यामि तान् [१४]
9. इत्येवञ्जननिमपेतकलुषां राजा प्रणम्योचिवान्
10. नाम्बानृण्यमहन्तपोभिरमलैः शक्नोमि यातुम्पितुः
11. किन्त्वाप्तेन यथावदस्त्रविधिना तत्पादसंसेवया
12. यास्यामीति ततोम्बयातिमुदया दत्ताभ्यनुज्ञो नृपः [१५]
13. प्रायात्पूर्व्वपथेन तत्र च शठा ये पूर्व्वादेशाश्रयाः
14. सामन्ताः प्रणिपातबन्धुरशिरःप्रभ्रष्टमैालिस्रजः
15. तानाज्ञावशवर्त्तिनो नरपतिः संस्थाप्य तस्मात्पुनः
16. निर्भीः सिंह इवाकुलोत्कटसटः पश्चाद्भुवज्जग्मिवान् [१६]
17. सामन्तस्य च तत्र दुष्टचरितं श्रुत्वा शिरः कम्पयन्
18. बाहुं हस्तिकरोपमं स शनकैः स्पृष्ट्वाब्रवीद्गर्व्वितम्
19. आहूतो यदि नैति विक्रमवशादेष्यत्यसैा मे वशम्
20. किं वाक्यैर्बहुभिर्वृथात्र गदितैः संक्षेपतः कथ्यते [१७]
21. अद्यैव प्रिय मातुलोरुविषमक्षोभार्ण्णवस्पर्द्धिनीम्
22. भीमावर्त्ततरङ्गचञ्चलजलान्त्वङ्गण्डकोमुत्तर
23. संनद्धैर्व्वरवाजिकुञ्जरशतैरन्वेमि तीर्त्त्वा नदीम्
24. त्वसेनामिति निश्चयान्नरपतिस्तीर्ण्णप्रतिज्ञस्तदा [१८]
25. जित्वा मल्लपुरीन्ततस्तु शनकैरभ्याजगाम स्वकम्
26. देशम्प्रीतमनास्तदा खलु धनम्प्रादाद् द्विजेभ्योक्षयम्
27. राज्ञी राज्यवती च साधुमतिना प्रोक्ता दृढं सूनु[ना]
28. भक्त्याम्ब त्वमपि प्रसन्नहृदया दानम्प्रच्छ स्व[तः] [१९]
Source:
Vajracarya, Dhanavajra. (1973). Lichhavikalka Abhilekha. [Inscriptions of Lichhavi Age]. Kathmandu: Institute for Nepalese and Asian Studies. pp. 12-13.
वज्राचार्य, धनवज्र । (२०३०) । लिच्छवीकालका अभिलेख । काठमाडैां : नेपाल र एशियाली अध्ययन संस्थान । पृष्ठ १२-१३ ।
For the full text, see: http://changu-narayan.blogspot.com/2015/10/mandev-inscription-fulltext.html.
No comments:
Post a Comment